Monday 1 June 2015

।।अष्टावङ्गानि आयुर्वेदस्य आहुः।।


अस्माकं भारतीयसंहितासाहित्येषु अष्टन् शब्दस्य महत्त्वमत्यधिकं प्रतिभाति। कायवाङ्मानसादारभ्य मोक्षसाधनपर्यन्तमष्टाख्यसंख्या अस्माननुवर्तते। भगवतः श्रीमन्नारायणस्य अष्टाक्षरजपद्वारैव मोक्ष इति श्रीवैष्णवानामभिमतमिति मोक्षप्राप्तये, अष्टाङ्गयोगाभ्यासेनैव प्राणानां रक्षणमिति पतञ्जलिमुनेरन्तेवासिनामनुसारेण, अष्टाध्यायीग्रन्थानुसारेणैव वाचः शुद्धिर्भवति इति मुनित्रयपथगानामनुशासनमिति सर्वत्र अष्टानामाश्रयणम् इत्येवं क्रमे शरीरस्यापि अष्टाश्रयणमस्त्येव। अष्टाङ्गद्वारा मनुष्याणां स्वास्थ्यरक्षणं कथं करणीयमिति क्रमबोधनमेव अष्टावङ्गानि इति॥
आयुर्वेदस्य लक्ष्यं किमिति विचारयामश्चेत् पाश्चात्यवैद्यपद्धतिरिव न केवलं व्याधिनिवारणमपि तु मनुष्यस्य जीवनपद्धतिमपि बोधयति। अत्र चिकित्सैकमात्रमिति न अपि तु अनेके लौकिकविषयाः अपि चर्चिताः आचार्यैः चरकादिभिः। अत एवोक्तिरियं श्रूयते – "अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥" इति। अत्र क्षेत्रे वैद्येतराणामनुसन्धानानां न्यूनत्वात् ते विषयाः नैतावता बहिरानीताः सन्ति इति मन्मतम्। एवं विद्यमानेऽस्मिन्नायुर्वेदे चिकित्सा अष्टभिरङ्गैः विभज्य प्रतिपादिताऽस्ति। तदुच्यते – 
                        कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्।
 
                        अष्टावङ्गानि तस्याहुः चिकित्सा येषु संश्रिताः॥
                                                                        (अष्टाङ्गहृदयम्-सूत्रस्थानम्-प्रथमोऽध्यायः) इति। तद्यथा
1.    कायचिकित्सा (General Medicine)
अत्र कायशब्देन शरीरस्थः अग्निरुच्यते। तस्य चाग्नेः विकृत्या विकारेण शरीरे जायमानाः रोगाः, तस्य चिकित्साविधयश्च अत्र अन्तर्भवन्ति।  सामान्यतो मनुष्याणामाहारविहारादिक्रमः अत्र प्रतिपाद्यमानो विषयः॥
2.   बालचिकित्सा (Pediatrics)
बालस्य विषयसंबद्धोऽयं विभागः। गर्भादानादारभ्य शिशोः पोषणपर्यन्ताः विषयाः अत्र प्रतिपाद्यन्ते। गर्भस्थशिशोः सहितं (हितयुक्तं) संरक्षणम्, शिशोः ससुखं पालनमित्यादिकं कथं कर्तव्यम्, शिशोः रोगाणां कथं निवारणमित्यादयो विषायाः अत्र प्रतिपादिताः सन्ति। शिशवः न स्वयं वदन्ति स्वपीडाम्, अतः तेषां रोदनादिभावेनैवावगमनं भवेत्।  तदनुगुणं चिकित्साः कल्पिताः सन्ति महर्षिभिः। सारतश्चेत् कुमारस्य भरणं - पोषणं कथं कर्तव्यमिति विषयप्रतिपादनमयमंशः॥
3.   ग्रहचिकित्सा (Psychiatry)
            ग्रहानां संचारेण मनुष्याणां मनसः परिवर्तनं भवति। तदनुगुणं मनसः स्थित्यनुगुणं मानसिकरोगाणां चिकित्साः अत्र विदिताः॥
4.   ऊर्ध्वाङ्गचिकित्सा (ENT, Eye, Head)
            शरीरस्य ऊर्ध्वभागस्य चिकित्साविधयः अत्र उक्ताः इति हेतोरिदं नामास्ति ऊर्ध्वाङ्गचिकित्सा इति। कण्ठस्योपरि भागानां शिरस्संबन्धिनः रोगस्य चिकित्साविधिरत्र प्रतिपादितोऽस्ति॥
5.   शल्यचिकित्सा (Surgery)
            यन्त्राणि उपयुज्य व्रणादि अङ्गविकारान् यन्त्रशस्त्रक्षाराग्निकर्मभिः चिकित्सनं शल्यचिकित्सा इति। इयं च द्विधा भवति शारीरम्, आगन्तुकमिति। शारीरं नाम शरीरे विद्यमानाङ्गानां विकृतौ चिकित्सनम्। यथा दन्त-केश-नखादीनां दोषादिभिः विकृतिगतानां चिकित्सनम्। आगन्तुकं नाम शरीरासंबन्धीनि वस्तूनि यदा शरीरमापद्यन्ते तदा क्रियमाणाः चिकित्साः। यथा युद्धे बाणाघातः, मार्गे गमनावसरे शिला-लोहखण्डानामुपरि पादस्थापनेन तेषामन्तर्गमनम् इत्यादि॥
6.   दंष्ट्रचिकित्सा (Toxicology)
            सर्प,वृश्चिकादीनां विषजन्तूनां दंष्ट्रणेन शरीरे उत्पद्यमानः विकारः, तस्य च चिकित्साविधयः अत्र प्रतिपादिताः सन्ति। तदतिरिच्य प्राकृतिकानामपि विषाणां विश्लेषणं, तस्य उपसेवने चिकित्साः अपि अत्र विषयीकृताः सन्ति॥
7.   जराचिकित्सा (Geriatrics)
            अस्य रसायनचिकित्सा इति नामान्तरमपि विद्यते। रसायनसेवनेन जरानिवारणोपायः, मेधावर्धनम्, त्वचः कान्तिः इत्यादयः विषयाः अत्रान्तर्भवन्ति॥
8.   वृष्यचिकित्सा (Aphrodisiac Therapy)
            वाजीकरणमिति नामान्तरमस्य। मैथुनविषयप्रतिपादकोऽयं भागः। अत्र पुंस्त्रियोः लिङ्गसंबन्धिनां रोगाणां चिकित्साक्रमः, गर्भोत्पत्तये अनुसरणीयाः अंशाः इत्यादयो विषयाः अत्र प्रतिपादनविषयीकृताः सन्ति॥
            इत्येवंभूतानामष्टानामङ्गानामाश्रयणेनैव आयुश्शास्त्रमिदं वरीवर्त्ति। पाश्चात्यैः रोगमात्रस्य निवारणं क्रियते। परं सहस्रादिकेभ्यः संवत्सरेभ्यः प्राक् मुनिभिः स्वज्ञानबलेन अस्माकं परंपरान्तपर्यन्तमुत्पद्यमानान् रोगान् ज्ञात्वा तन्निवारणम्, मनुष्याणां जीवनपद्धतिरित्येवमादयो विषयाः अत्र आयुर्वेदे प्रतिपादिताः। यदि वयमज्ञानेन वा अश्रद्धया वा आयुर्वेदोपदेशान् दूरीकुर्मः तर्हि नातिचिरादस्ति मनुष्याणामन्तिमा दशा। धर्मादिसाधनार्थं सुखजीवनमावश्यकमस्ति। तत्सुखजीवनमायुर्वेदोपदेशस्य अनुसरणेनैव भवति। तदुच्यते – 
आयुः कामयमानेन धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु विधेयः परमादरः इत्युक्तिः॥ 
इतो विरम्य अग्रिमालोचने पुनर्मिलामः॥

शि.त्यागराजः (वयम् - आयुर्विदः)

0 comments:

Post a Comment