Sunday 19 April 2015

आयुर्वेदे संस्कृतस्य प्रामुख्यम्


कदाचित् आयुर्वेदच्छात्रेभ्यः इदं शीर्षकं भाषणस्पर्धायै दत्तमासीत् – आयुर्वेदे संस्कृतस्य प्रामुख्यम् इति। इदं वचनं श्रुत्वा किमिदं संस्कृतभाषायामेवास्ति खलु आयुर्वेदः, पुनः आयुर्वेदे संस्कृतस्य प्रामुख्यमिति अयुक्तमस्ति इति मन्मनसि चिन्ता समुदिता। परमद्यत्वे वस्तुगता स्थितिरियमेवास्ति सर्वे आयुर्विदः संस्कृतं न जानन्ति, किञ्चिज्ज्ञाः वा। केनापि हेतुना आङ्ग्लभाषायाः आघातः अत्रापि आयुर्वेदे आपतितोऽस्ति। आयुर्वेदग्रन्थे विद्यमानान् पारिभाषिकशब्दान् जानन्ति चेदलं, ततो संस्कृतस्य का वा आवश्यकता इति, चरकादि संहिताग्रन्थानां तावत् आङ्ग्लभाषायामनुवादोऽस्ति इति वा चिन्तयन्तः आयुर्वेदस्य संस्कृतस्य च संबन्धं दूर्यकुर्वन्। नैतावता, ये भवन्ति संस्कृतपारङ्गताः विद्वांसः लोके तेऽपि आयुर्वेदः इति शब्दमेव श्रुतवन्तः स्युः। तत्रत्यविषयान् ज्ञातुं न प्रयतन्ते। इयमवस्था अवश्यं परिवर्तनीया। आयुर्वेदस्य विषयान् भाषान्तराणां साहाय्यं विना संस्कृतेनैव यदि छात्राः अध्ययनं कुर्वन्ति तर्हि आयुर्वेदसंहिताः रक्षिताः भवेयुः। विषयस्य चिन्तनमपि विस्तृतमभविष्यत्। संहितानामुपरि चर्चाः भवन्ति, तेन नूतनविषयानामन्वेषणम् भवति, इतोऽपि आयुर्वेदस्य स्थरः वैश्विकः भवति। तदर्थम्, ये भवन्ति आयुर्वेद-संस्कृततल्लजाः युवायुर्वेदसमूहान् उद्बोध्य मार्गदर्शनं कुर्युरिति मे मतिः। अवसरानुगुणम् इतोऽपि लिखामि।

0 comments:

Post a Comment