Vayam Ayurveda

We are for ayurveda. Ayurveda is for us.

Monday, 1 June 2015

।।अष्टावङ्गानि आयुर्वेदस्य आहुः।।

अस्माकं भारतीयसंहितासाहित्येषु अष्टन् शब्दस्य महत्त्वमत्यधिकं प्रतिभाति। कायवाङ्मानसादारभ्य मोक्षसाधनपर्यन्तमष्टाख्यसंख्या अस्माननुवर्तते। भगवतः श्रीमन्नारायणस्य अष्टाक्षरजपद्वारैव मोक्ष इति श्रीवैष्णवानामभिमतमिति मोक्षप्राप्तये, अष्टाङ्गयोगाभ्यासेनैव प्राणानां रक्षणमिति पतञ्जलिमुनेरन्तेवासिनामनुसारेण, अष्टाध्यायीग्रन्थानुसारेणैव वाचः शुद्धिर्भवति इति मुनित्रयपथगानामनुशासनमिति सर्वत्र अष्टानामाश्रयणम् इत्येवं क्रमे शरीरस्यापि अष्टाश्रयणमस्त्येव।...